________________
प्रकीर्णकप्रबन्धाः ३०७ थेऽकस्माद्दालमूर्ड्सि पतितयार्गलया स बालः परलोकमवाप । ततस्तच्छोकशङ्कुमुधिदिर्षवः श्रीभद्रबाहुगुरवो यावत्तद्नेहमायान्ति तावत्तद्गृहाङ्गणे समस्तनिमित्तशास्त्रपुस्तकान्येकत्र पिण्डीकतानि सं. निहितदहनान्यालोक्य किमेतदिति पृष्टः सांवत्सरः समत्सरस्तान् जैनमुनीनुपालम्भयन् एतानि संदेहकारीणि धक्ष्याम्येव यैरहमपि विप्रलब्धस्तेनेति सनिर्वेदमुदिते तैः श्रुतज्ञानबलात्तजन्मलग्नं सम्यक् तस्मै निवेद्य सूक्ष्मेक्षिकया तद्गृहबले ज्ञापित विशतिदिनान्येव भवन्ति । इत्थं विरक्तावपनीतायां स ज्योतिषिक इति जगौ । यद्भवद्भिर्बिडालान्मृत्युरुपदिष्टस्तदेव व्यभिचारीति तेनाभिहिते तत्रार्गलां तामानाय्य तत्रोत्कीर्ण बिडालं दर्शयन्तो भवितव्यताव्यत्ययः किं कदापिभवतीति महर्षिभिरभिदधे । कस्मात् रुद्यते गतः कः परमाणवोऽनपायाः संस्थानविशेषनाशजन्मा शोकश्चेन्न कदापि मोहितव्यम् । अभावप्रभवर्भावैर्मायाविभवभावितैः । अभावनिष्टं पर्यन्ते सतां न क्रियते तमः ॥ १ ज्योतिर्विद्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org