SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ प्रकीर्णकप्रबन्धाः ३८५ विवाहयित्वा यः कन्यां कुलजां शीलमण्डिताम् । समदृष्टया न पश्येत स पापिष्टतरः स्मतः॥१॥ इति त्वामवज्ञाकारिणं प्रलयकालमुक्तमर्यादया सान्तःपुरपरीवारं मजयिष्यामीत्यभिधाय क्वचित् क्वचित् पयांस्पपहृत्यान्तरीपान् प्रादुश्चकार । तानि सर्वाण्यपि लोकेषु कौऋणानीति प्रसिद्धानि ॥ इति कौङ्कणोत्पत्तिप्रबन्धः ॥ अथ पाटलीपुत्रपत्तने वराहनामा कश्चिद्राह्मणागभूः आजन्म निमित्तज्ञानश्रद्धालु१र्गतत्वादसून रक्षितुं पशून चारयन् क्वापि शिलातले लग्नमालिख्याकृततद्विसर्जनः प्रदोषकाले गृहमुपेतः। कृतसमयोचितकृत्यो निशीथकाले भोजनायोपविष्टो लग्रविसर्जनमनुस्मृत्य निरातङ्कवृत्त्या तत्र याति तावत्तदुपरि पारीन्द्रमप्युपविष्टमवगणय्य तदुदराधोभागे पाणिं प्रक्षिप्य लग्नं विमृजन सिंहरूपमपहाय प्रत्यक्षीभूय रविरेव वरं वृणु इत्युवाच । अथ समस्तनक्षत्रग्रहमण्डलं दर्शयेति वरं प्रार्थयमानः स्वविमानेऽधिरोप्य तत्रैव नीतो वत्सरान्ते यावद्ग्रहाणां वकातिचारोदयास्तमनादीन भावान् प्र१ A पोटलापुत्र. 39 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy