SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ प्रकीर्णकप्रबन्धाः २८७ तैः समं चिरं चिक्रीड । एवं स्थिते समस्तराजलो. कस्यावहेलनां नृपतेनिशम्य ततः स्कन्धावारावारात् सचिवोल्यपरिच्छदो नृपमुपेत्येत्यवादीत्.। यस्त्वमिदानीमेव विस्मृतकारुभावः स्वभावचलाचलतथा यदि कामपि मर्यादां न मन्यसे तदा त्वां निर्विषयीकृत्य कमप्यपरं कुलालबालं भूपालं करिष्यामीति तदुक्तिक्रुद्धः स नृपः सभायामुपांशुभूमौ कोत्र भोः, इति व्याहृतिसमनन्तरमेव सजीभूतैश्चित्रपदातिभिः स सचिवः संदानितः। तदसंभाव्यं महदाश्चर्य विमृश्य तत्प्रभुप्रभावाविर्भावचमत्कृतचित्तस्तत्पदयोर्निपत्य स्वं मोचयितुमत्यर्थ सभ्यर्थयन् नृपेण तथा कारिते स सभक्तिकं विज्ञपयामास। भवतः साम्राज्यदाने निमित्तमात्रोहं तव प्रभावादालेख्यरूपाणि सचेतनीभूयेत्थं निदेशवशंवदानि भवन्ति तत्र प्राकृतान्येव कर्माणि कारणमत एव भवान्पुण्यसार इति सान्वयनामा ॥ इति पुण्यसारप्रबन्धः ॥ अथ पुरा कुसुमपुर नन्दिवर्द्धननामा राजकु१ B बलाबलतया २ C प्राक्तनानि ३ पाटलीपुत्रनगरेऽत्र चन्द्रनृपः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy