SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ २८६ प्रबन्धचिन्तामणिः सर्गः ५ हृदा महामात्येनाऽनुगम्यमानो राजपाटिकायां व्रजनविपर्यस्तध्वस्तेनं तुरङ्गेण नृपेऽपन्हियमाणे चतुरङ्गचमूचके क्रमेण दवीयसि संजायमानेप्यतिजवे जवनेऽधिरूढः।तदानुपदिकः “कियत्यपि भूभागे उल्लविते सति मार्गोल्लङ्घनपरिश्रमादत्यन्तसुकुमारतया रुधिरपूरितवाद्विपन्ने नृपतौ” कृतानन्तरकृत्यस्तुरङ्गमं तद्वेषं च सहादाय प्रदोषसमये पुरं प्रवि शन् राज्यस्यानुसंधानचिकीः श्रीमालभूपालभयाकमपि नृपतेः सवयसं सरूपं च कुलालमालोक्य तं तद्वेषार्पणपूर्वकं तुरगेधिरोप्य सौधप्रवेशानन्तरं देव्यै तं व्यतिकरं निवेद्य सचिवेन पुण्यसार इति नाम विधाय स एव नृपतीचक्रे । इत्थं कियत्यपि गते काले स सचिवश्वमूसमूहवृतः प्रतिनृपति प्र. ति प्रतिष्ठासुः स्वप्रतिहस्तकप्रायं कमपि प्रधानपुरुपं नृपतिसेवाकते निवेद्य स्वयं देशान्तरविहारमकरोत् । अथ स एथिवीपतिर्निरङ्कशो वेश्यापतिरिवं स्वैरविहारी तदनन्तरं पुरकुम्भकारान्समस्तानाहूय मृन्मयान् हयान् करिकलभकरभादींश्च निर्माय १ B C विपर्यस्तायस्तेन २ C सीमाल. ३ B वेशापतिरिव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy