SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ २८४ प्रबन्धचिन्तामणिः सर्ग.५ तीतस्तूर्ययामस्य ताम्रचूडेषु रुतमकुर्वाणेषु यद्यस्मिन्नगे कयाचिद्विद्यया द्वादश पाः कारयसि ततो भवन्तमभीष्टं करोमीति तदुक्तिसमनन्तरमेव तत्र कर्मणि चेटकपटकं नियोज्य यामदयेन निमापिते सर्वपद्यानिवहे श्रीमाता स्वशक्तिवैभवेन कृतकं ताम्रचूडारवं कारयन्ती तेनागत्य विवाहाय सजीभवेत्यभिदधे ।तव पद्याया निष्पाद्यमानायाः कुक्कुटरवः समजनिष्टेति तयोक्ते भवन्मायया कृतकं ककवाकुरवं को न वेत्तीत्पुत्तरं ददानः सरित्तीरे तजाम्योपढौकितविवाहोपहारः, श्रीमात्रा समस्तविद्यामलं तत्रिशूलमिहैव विहाय पाणिपीडनाय सनिहितो भवेत्याहूय, प्रेमोपहतचित्ततया तत्तथा कृत्वा सामीप्यमुपागतः तत्पदयोः कृतकान शुनो नियोज्य हृदये तेन त्रिशूलेनाहत्य मारितः । इत्थं निःसीमशीललीलायितेन स्वजन्मातिवाहितवती। तस्यामखण्डशीलायां व्यतीतायो श्रीपुञ्जराजा तत्र शिखरबन्धरहितं प्रासादमकारयत् । यतः षण्मासान्ते तस्य गिरेरधोभागवर्ती अर्बुदनामा नागो यदा चलति तदा पर्वतकम्पो भवति । अतः शि१ B पद्यां हृद्यां [२ मृतायाम् - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy