SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ प्रकीर्णकप्रबन्धाः २८३ पुत्री समजनि सा च संपूर्णसर्वाङ्गावयवसुन्दरापि कपिमुखी तेन वैराग्येण विषयविमुखतां बिभ्राणा श्रीमातेति नामधेयं बभार । सा कदाचिजातजातिस्मृतिः पितुरग्रे स्वं पूर्वभवं निवेदितवती, यदहमर्बुदाद्रौ पुरा कपिपत्नीत्वमनुभवन्ती कस्यापि शाखिन एकस्याः शाखायाः शाखान्तरं संचरन्ती केनापि तदतुल्येन शिल्पेन विद्धतालुः पञ्चत्वमासदत्ातदधोवर्तिनि कामिततीर्थकुण्डे यावद्गलितं वपुः पपात तावत्तीर्थातिशयान्मामकं वपुर्मानुषाकारमभवत् यन्मस्तकं तु तत्तथैवास्ते तेनाहं कपिवदना। अथ श्रीपुञ्जनृपस्तस्यास्तन्मस्तकं कुण्डे क्षेपयितुं निजान्पुरुषान्समादिदेश । तैस्तु सुचिरात्तत्तदवस्थं विलोक्य तथाळते सा श्रीमाता मानवानना समजनि । ततःप्रभृति सा मातरपितरावनुज्ञाप्याऽर्बुदसंख्यगुणा तस्मिन्नेवाऽबुंदे तपस्यन्ती, कदाचिद्गगनगामिना योगिना ददृशे । स च तत्सौन्दर्यापहतहृदयो गगनादुत्तीर्य प्रेमालापपूर्वकं त्वं मां कथं न वृणोषीति पर्छ । सेत्यवादीत् । साम्प्रतं तावत्क्षणदायाः प्रथमयामो व्य१. गलित्वा २ A B आप्त पुरूषान् ३ C ता तदवस्थं ४ A पृष्टा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy