SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ २८२ प्रबन्धचिन्तामणिः सर्गे ५ न्मृगी संध्यादयेपि पयःपानं कारयन्ती तमनुदिनं वृद्धिमन्तं कारयामास । तस्मिन्नवसरे देव्या महालक्ष्म्याः पुरतः ढङ्कशालायां हरिण्याश्चतुर्णां पादानामधः शिशुरूपं नाणकं नूतनं संजायमानमाकर्ण्य क्वचिन्नवीनो नृप उत्पन्न इति प्रसृतवार्त्तया श्रीरत्नशेखरः सैन्यानि प्रतिदिशं तं शिशुं विशसितुं प्राहिणोत् । तैर्यत्र तत्रावलोक्य लब्धोपि बा - लहत्याभीतैः स सायं पुरगोपुरे गोकुलखुररवैर्यथायं बालो विपन्नः सन्स्वयमपवादाय न भवतीति ༣रस्थैः स्तैर्यावन्मुक्तस्तावत्तत्रायातं गोकुलं तं मूर्त्ति - मन्तं पुण्यपुञ्जमिव बालमालोक्य तैरेव पदैः स्तम्भितमिव तस्थौ । अथ पाश्चात्यपक्षात्पुरोभूय वृषभो वृषभासुरं तं शिशुं पदानामन्तराले निधाय गोधनं सकलमपि प्रेरयामास । अथ तं वृत्तान्तं नृपोऽवधार्य तैः समं तमपरेतं लोकैर्विज्ञप्तश्च तं बालमानीय पुत्रीयमाणः श्रीपुअ इति दत्ताभिधानः प्रवईयामास । अथ श्रीरत्नशेखरे राज्ञि दिवं गते तस्य राज्ञः कृताभिषेकस्य साम्राज्यं पालयतः १ C टङ्कशालायाः २ वृषेण पूर्वपुण्येन देदीप्यमानं । वृषः कामदेवस्तद्वद्वाभासुरं ३ B सामन्तनगरलोकः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy