________________
प्रकीर्णक प्रबन्धाः
२७७
#
संगृह्यापि कदर्यवर्यतया कापि सत्पात्रे तीर्थे वा - नुकम्पया वा तस्याः श्रियो न्यासो दूरे तिष्टतु प्रत्युत सकललोकसंजिहीर्षया तो लक्ष्मीं सकलस्य विश्वस्य कालरात्रिरूपामदर्शयत् । अथ स्वसुताया रत्नखचितकङ्कतिकाया, राज्ञा स्वसुतायाः कृते प्रसभमपहृतायास्तद्विरोधानुरोधात्स्वयं म्लेच्छमण्डले गत्वा वलभीभङ्गाय तद्याचितकाञ्चनकोटीरस्मै समर्प्य प्रयाणमचीकरत् । तदनुपलतस्तु एकः छत्रधरः निशाशेषे सुप्तजाग्रदवस्थेऽवनीपतौ पूर्वसंकेतितेन केनापि पुंसा सममित्यालापमकरोतू । अस्मत्स्वामिनां मन्त्रेऽमूर्खः कोपि नहि यदयमश्वपतिमहीमहेन्द्रः केनाप्यऽज्ञातकुलशलिनासाधुना साधुना वापि वणिजा नामकर्मभ्यां रङ्केन प्रेरितः सूर्यपुत्रं शिलादित्यं प्रति यश्वचालेति पथ्यां तथ्यां तद्वाचमाकर्ण्य किञ्चिचेतसि विचिन्तयन् तस्मिन्नहनि नृपः प्रयाणविलम्बमकरोत् । अ
१ C कङ्कतिकायां स्वसुताकृते प्रसभमुपहतायां २ D तद्याचिताः काञ्चनकोर्टास्तस्य नवकोटीरस्य ३ A एकच्छत्रधरो ४ C निशासौधे सुप्तजाग्रदवस्थे पृथिवीपतौ ४ BD मूषकोपि नहि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org