________________
२७६ प्रबन्धचिन्तामणिः सर्गः ५ तावत्कश्चित्कापटिकः कल्पपुस्तकप्रमाणेनं रैवतकशैलादलाबुना सिद्धरसमादाय मार्गमतिक्रामन् काकूयतुम्बडीत्यशरीरिणीं वाणीमाकर्ण्य विस्मयस्मेरमना जातभीवलभीपरिसरे तस्य छद्मनो वणिजः सद्मनि र इति तन्नामतो निशङ्कतया तत्सरसमलाबु तत्रोपनिधीचक्रे । स स्वयं श्री सोमेश्वरयात्रायां गतः । कस्मिन्नपि पर्वणि पाकविशेषाय चुल्हीनियोजितायां तापिकायमलाबुरन्ध्राद्गलितरसबिन्दुना हिरण्मयीं तां निभाव्य स वणिग् तं सिद्धरसं चेतसा निर्णीय तदलाबुसहित गृहसर्वस्वमन्यत्र नियोज्य स्वगृहं प्रदीपकेन भस्मीकृत्य परस्मिन्गोपुरे सौधं निर्माप्य तत्र निवसनू, कदाचित्प्राज्याज्यविक्रयकारिण्यः स स्वयं घृतं सोलयंस्तदक्ष निरीक्ष्य घृतपात्राधः कृष्णचित्रकुण्डलिक विमृश्य केनापि कैतवेन तव्यत्ययादपहृत्य चित्रकसिद्धिं स्वीचकार । कदाचित्तस्यागण्य पुण्यवैभववशात्सुवर्णपुरुषसिद्धिरजायत । इत्थं त्रिविधसिडया कोटिसंख्याभिधानानि धनानि १ रसानयशास्त्रोक्तरीत्या २० काकतुम्बडीति सिद्धरसात् ३ तपेलीति भाषायाम् C ४ कारिणा - ५ अक्षीणं ६ A कुण्डलियां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org