SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ २७० प्रबन्धचिन्तामणिः सर्ग. ५ अथ पूर्वोक्तेभ्यो महापुरुषचरितभ्यो यान्यवाशष्टानि तानि तदितराणि चेह प्रकीर्णकप्रबन्धे प्रारभ्यन्ते ॥ तद्यथा ॥ समीपस्फुरच्छिप्राश्रवन्त्यामवन्त्यां पुरि पुरा श्रीविक्रमार्कनृपः, सत्रागारे वैदेशिकं लोकं भोजनानन्तरं निद्रापरं संपन्नदीर्घनिद्रेमार्कण्य विस्मयस्मेरमानसस्तद्वृत्तान्तं जिज्ञासुस्तान् सर्वानपि वसनपिहितान्विधाप्य तद्वार्त्ता चापन्हुतां निजाज्ञां विधाय पुनरुपागतानध्वगांस्तथैव भोजयित्वा प्रदोषे चोष्णोदकं तैलं च तेषां चरणपरिचरणनिमित्तमुपनीय तेषु २प्रसुप्तेषु महानिशायां कृपाणपाणिर्नृपतिर्निभृतीभूय स्वयं यावत्तस्थौ तादकस्मात्तत्र कोणैकदेशे प्रथमं तावडूमागमं तदनु शिखारेखामथ दीत्रफणारत्नफणालंकृतं सहस्रफणालंकृतसहस्रफणं नागं निर्गतमवलोक्य तच्चित्रचमत्कृतो राजा यावत्साकूतं पश्यति तावत्स फणीन्द्रः किं पात्रमिति तद्दिनसुप्तान् पान्थान् प्रत्येकं प्रपच्छ । अथ ते धर्मपात्रं गुणपात्रं तपःपात्रं रूपपात्रं कामपात्रं कीर्त्तिपात्रमित्यादीनि वदन्तोऽज्ञानतया यदृच्छया तस्य १ श्रीवत्यां २ प्राप्तमृत्युं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy