________________
कुमारपालप्रबन्धः
२६९ रिहतसप्तधातुबद्धं शरीरं स्वरूतफलमुपभोक्तुंस्वर्लोकमलंचकार । तत्संस्कारस्थानेऽनुजश्रीतेजःपालसुतजैत्रसिंहाभ्यां श्रीयुगादिदेवदीक्षावस्थामूर्त्तिनालंकृतस्वर्गारोहणप्रासादोऽकारि ॥ अद्य मे फलवती पितुराशा मातुराशिषशिखा गुरिताद्य । यद्युगादिजिनयात्रिकलोकं प्रीणयाम्यहमशेषमखिन्नः ॥ १ ॥ नृपव्यापारपापेभ्यः सुकृतं स्वीकृतं न यैः । तान्धूलिधावकेभ्योपि मन्येऽधमतरान्नरान् ॥ २ ॥ ___ इत्यादीनि श्रीवस्तुपालमहाकवेः काव्यानि स्वयं कृतान्यमूनि ॥ पूर्णः स्वामिगुणैः स वीरधवलो निर्मान एव प्रभुविद्वद्भिः कृतभोजराजबिरुदः श्रीवस्तुपालः कविः । तेजःपाल इति प्रधाननिवहे कश्च मन्लीश्वरस्तजायानुपमागुणैरनुपमा प्रत्यक्षलक्ष्मीरभूत् ॥
॥ इति श्रीमेरुतुङ्गाचार्याविकृते प्रबन्धचिन्तामणौ श्रीकुमारपालमन्त्रीश्वरवस्तुपालतेजःपालमहापुरुषयशोवर्णनो नाम चतुर्थः प्रकाशः॥ १ आशिः शब्दोऽकारान्तो न तथापि ग्रन्थकतैव न्यस्तः २८ निःसीमः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org