________________
कुमारपालप्रबन्धः कारणानोच्यते तथा कते भवतो वृथायास एव स्यादिति तन्मुखचन्द्रविनिर्गतैर्गोभिर्निर्वाणापताप: स्वामिनः कियान विभागः सर्वमेव भवदीयमेवेत्युत्का पटी न्युञ्छनीचके । अन्यदा यतिदानावसरे मियो मुनिजनसंमईने श्रीमदनुपमायाः प्रण: मत्याः प्राज्याज्यसंपूर्ण घृतपात्रं पृष्ठे पतितमालोक्य कुपितं तेजःपालमन्तिणमिति सान्त्वितवती यत्तव स्वामिनः प्रासादात्मुनिजनपुण्यपात्रपतितैराज्यैरङ्गाभ्यङ्गोभवतीति तत्पूर्णदानविधिचमत्कृतो. मन्त्री पञ्चाङ्गप्रसादपूर्व दानं प्रियवाक्सहितं ज्ञानमगवै क्षमान्वितं शौर्यम् त्यागसहितं च वित्तं दुर्लभमेतञ्चतुर्भद्रम् ॥ १ ॥ ___ इति युक्तोक्तिपूर्व च तां मन्त्री प्रशशंस। इत्यनेकधा दानावदातनिकषरेखां प्राप्ता। लक्ष्मीश्चला शिवा चण्डी शची सापत्न्यदूषिता। गङ्गा न्यग्गामिनी वाणी वाक्साराऽनुपमा ततः १
इत्यादिभिः स्तुतिभिर्जेनाचार्यैः स्तूयते स्म । अथान्यदा पञ्चग्रामसङ्कामाधिरूढयोः श्रीवीरधव
* बौद्धन विमलाचार्येण कृतोयं श्लोकः प्रश्नोत्तरमालायां वर्तते तस्मानारायणेन गृहीत्वा स्वग्रन्थे हितोपदेशे स्थापितः, तस्मादनेनेति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org