SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ २६४ प्रबन्धचिन्तामणिः सर्ग. न्त्रिणा तदुचित नेपथ्यादिभिः सत्कृतः स स्वस्थानं प्राप्तस्तीर्थगुणानां विस्मरन् श्रीसुरत्राणपुरतः श्रीवस्तुपालमेव वर्णयामास । स सुरत्राणस्तदनन्तरमस्माकं देशे भवानेवाध्यक्षोऽहं तु भवतः सेलभृत् तत्त्वयाहं यत्कृत्यादेशेनैव सर्वदानुग्राह्य इति प्रतिवर्ष तत्प्रहितयमलकपत्रेणोपरुध्यमानः श्रीमन्वीशः श्रीशत्रुञ्जयभूमिगृह योग्यं श्रीयुगादिजिनबिम्बं धन्यं मन्यमानस्य सुरत्राणस्यानुज्ञया तदेशवर्त्तन्या उम्मणीनाम्न्याः खन्याः प्रयत्नशतैरानीतवान् । तस्मिन्नप्यारोहति श्रीमूलनायक स्यामर्षात्पर्वते विद्युत्यातः समजनि । ततः प्रभृति श्रीमन्तीश्वरस्याजीवितान्तं श्रीदेवपादैर्दशनं न ददे । कस्मिंश्चित्पर्वाणि श्रीमदनुपमया निरुपमे मुनीनामन्नदाने यदृच्छया दीयमाने कार्योत्सुक्यात्तदागतः श्रीवीरधवलदेवः सिताम्बरदर्शनिनं द्वारप्रदेशं पाधिममालोक्य विस्मयस्मेरमानासो मन्त्रिणमभीहितवान् । हे मन्त्रिण इत्थं सदैवाभिमतदैवतवत् किममी न सत्क्रियन्ते । तव चेदशक्तिस्तदर्द्धभागो ममास्तु । मामकमेव सर्वे वा दीयतां सदैवेत्यतः १० सर्वथा २ A B मुम्माणी ३ A दर्शनेन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy