________________
२६२ प्रबन्धचिन्तामणिः सर्गः र्भाति प्रक्रीडदूर्मिस्तव सचिव चलञ्चक्रवाकस्त
टाकः ॥ १ ॥
ર
श्रीमन्त्रिणा षोडशसहस्रद्रम्माणां दत्तिः ' प्रसादीकृता । क्वचिच्चिन्तातुरस्य मन्त्रिणो भूमिं मृगयमाणस्य समागतः । सोमेश्वर देवः समयोचितमिदमपाठीत् ॥ तद्यथा ॥ एकस्त्वं भुवनेोपकारक इति श्रुत्वा सतां जल्पितं लजानम्रशिराः स्थिरातलमिदं यद्वक्ष्यसे वेद्मि तत् वाग्देवीवदनारविन्दतिलक श्रीवस्तुपाल स्वयं पातालाइ लिमुद्दिधीर्षुरसकृन्मार्ग भवान् मार्गति १ मन्त्रिणास्य काव्यस्य पारितोषिकेऽष्टौ सहस्राणि दत्तानि ॥ तथा ॥
I
त्वचं कर्णः शिविर्मासं जीवं जीमूतवाहनः । ददौ दधीचिरस्थीनि । इति त्रिषु पदेषु पण्डितेपृधीयमानेषु पण्डितजयदेवः समस्यापदमिव वस्तुपालः पुनर्वसु । इत्युञ्चरन् सहस्रचतुष्टयं लेभे । तथा सूरीणां दर्शनप्रतिलाभनावसरे केनापि दुर्गतद्विजातिना याचनया तन्नियुक्तेभ्यः कृपया पटीमुपलभ्य मन्त्रिणं प्रति समयोचितमूचे ॥ १ B दाक्षि: २ D सहस्रा दानैः प्रसादीकृताः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org