________________
कुमारपालप्रबन्धः २६१ वत्सुपालेन समं समरवासरं निर्णीय यावञ्चतुरङ्गसैन्यं सन्नह्यते तावच्छ्रीवस्तुपालेन पुरः कृतो गुडजातीयो लूण पालनामा सुभटो यदि शङमन्तरेणारं प्रहरामि तदा कपिलां धेनुमेवेति वारवर्णिकापूर्व कः शङ्ख इति तद्वचनादनु शङ्कोहमिति प्रतिसुभटेनोदिते तं निपात्य पुनरनयैव रीत्या द्वितीयेपि पातिते सति कथं समुद्रसामीप्यात् शङबाहुल्यमित्युञ्चरन् महासाधनिकश नव तत्सुभटतां श्लाघमानेनाहूतःकुन्ताग्रेण प्रहरन सतुरगएकेनैव प्रहारेण व्यापादितः । तदनु श्रीवस्तुपालेन समराङ्गणप्रणयिना केसरिकिशोरेण व शङसैन्यं गजयूथमिव त्रासितं दिशो दिशमनेशत् । पश्चान्नौवित्तको मारितः सइयद इति । तदमु लूणपालमृत्युस्थाने लूणपालेश्वरप्रासादो मन्त्रिणा कारितः । अथान्यस्मिन्नवसरे श्रीसोमेश्वरस्य कवेः काव्यम् ॥ हंसैलब्धप्रशंसस्तरलितकमलप्रत्तरङ्गैस्तरङ्गैनीरैरन्तर्गभीरैश्चटुलबककुल ग्रासलनिश्च मीनैः । पालीरूढद्रुमालीतलसुखशयितस्त्रीप्रणीतैश्च गीत
१ A भवण D लण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org