SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ कुमारपालप्रबन्धः दर्तितरलिताय नृपतये षण्मासीशेषमायुरास्ते संतत्यभावाद्विद्यमान एव निजामुत्तरक्रियां कुर्या इत्यनुशिक्ष्य दशमदारेण प्राणोत्क्रान्तिमकार्षुः। तदनन्तरं प्रभोः संस्कारादनु तद्भस्म पवित्रमिति राज्ञा तिलकव्याजेन नमश्चक्रे । ततः समस्तसामन्तैस्तदनु नगरलोकैस्तत्रत्यमृत्स्नायां गृह्यमाणायां तत्र हेमखण्ड इत्यद्यापि प्रसिद्धिः ॥ अथ राजा बाप्पाविललोचनः प्रभुशोकविप्लवमनाः सचिवैविज्ञप्त इदमवादीत् । स्वपुण्यार्जितोत्तमतमलोकान प्रभून्न शोचामि किं तु निजमेव सप्ताङ्गराज्यं सर्वथा परिहार्य राजपिण्डदोषदूषितं, यन्मदीयमुदकमपि जगद्गुरोरङ्गे न लग्नं तदेव शोचामीति प्रभुगुणानां स्मारं स्मारं सचिरं विलप्य प्रभूदिते दिने तदुपदिष्टविधिना समाधिमरणेन नृपः स्वर्लोकमलंचकार ॥ सं० ११९९ वर्षावर्ष ३१ श्रीकुमारपालदेवेन राज्यं कृतं ॥ सं० १२३० वर्षेऽजयदेवोऽभिषिक्तः । अस्मिन्पूर्वप्रासादान् विध्वंसयति सीलनामा कौतुकी नृपपुरः प्रारब्धेऽवसरे कृतककामपटुतां मायया निर्माय तत्र स्वकल्पितं देवकुलपञ्चकं पुत्रेभ्यः समर्प्य ममानन्तरं भक्त्यतिशये Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy