________________
२४४ प्रबन्धचिन्तामाणः सर्ग. ४ धानान्निजमायुः सबलं वीक्ष्याऽष्टाङ्गयोगाभ्यासेन प्रभवस्तं लीलयोन्मूलितवन्तः॥ कदापि कदली. पत्राधिरूढं कमपि योगिनमालोक्य विस्मिताय नृपतये आसनबन्धेन चतुरङ्गुलमूलभूमित्यागाद्ब्रह्मरन्ध्रेण निर्यत्तेजःपुजं प्रभवो दर्शयामासुः ॥ अथ चतुरशीतिवर्षप्रमाणायुःपर्यन्ते निजमवसानदिनमवर्धायान्त्याराधनक्रियायामनशनपूर्वप्रारब्धायां त
* तयातनाबाधितमूर्तिरुच्चैः पप्रच्छ सूरिं गदशान्तिहेतुम् । आयुर्घनं श्रीकुमरस्य वीक्ष्य ते दक्षमुख्या अवदन्विमृश्य ॥ निवेश्यतेऽन्यो यदि कोपि राज्ये हित्वामयस्त्वां तमयं प्रयाति ॥ उवाच चातुर्यनिधिर्नरेशो निहन्म्यहं किं निजजीवितार्थ । वराकमन्यं परमार्थविज्ञः ! गिरः सुधासारसमा निपीय । दयाकिरस्ता अवदद्यतीशः । निविश्य राज्ये स्वयमेव दु ख । तत्ते हरिष्यामि नरेश्वराहं । अवोचदुच्चैश्चकितो नरेशः। को देववृक्षं पिचुमन्दहेतोश्चिन्तामणि काचकते निहन्ति । रोग निहन्तुं मम शक्तिरस्ति स्वाङ्गान्तरं योगबलेन राजन् । ततः कुमारो महता महेन न्यवीविशत्सूरिवरं स्वराज्ये । हित्वा कुमारं परिमुक्तराज्यं लूतामयः सूरिशरीरमाप । रोगं हन्तुं निश्चलाङ्गः स योगी प्राणायामं पूरकाख्यं वितेने । ऊर्ध्वं नीते. सूर्यबिम्बे समन्ताच्चन्द्रस्तापाद्राग् सुधाभिर्ववर्ष । श्लिष्टं ताभिः सर्वरोगापहाभिर्वेगादङ्गं चङ्गमासीदमुष्य। ___ इति चारित्रमुन्दरगणिकृतकुमारपालचरित्रस्य दशमसर्गस्य प्रथमवर्गे प. ३४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org