SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ कुमारपालप्रबन्धः दापयामास । इति सौराष्ट्रचारणयोः प्रबन्धः । कदाचिच्छीकुमारपालनृपतिः श्रीसंघाधिपतीभूय तीर्थयात्रां चिकीर्षुमेहता महेन श्रीदेवालयप्रस्थाने संजाते सति देशान्तरायातयुगलिकया त्वां प्रति डाहलदेशीयकर्णनृपतिरुपैतीति विज्ञप्तः स्वेदबिन्दुतिलकितललाटं दधानो मन्त्रिवाग्भटेन साकं साध्वसध्वस्तसंघाधिपत्यमनोरथः प्रभुपादान्ते स्वं निनिन्द । अथ तस्मिन्नृपतेः समुपस्थिते महाभये किंचिदवधार्य द्वादशे यामे भवतो निवृत्तिर्भविष्यतीत्यादिश्य विसृष्ठो नृपः किंकर्तव्यतामूढो यावदास्ते तावनिर्णीतवेलायां समागतयुगलिकया श्रीकों दिवं गत इति विज्ञप्तो नृपेण ताम्बूलमुत्सृज्य कथामिति पृष्ठौ तावूचतुः । कुम्भिकुम्भस्थः श्रीकर्णः प्रयाणं निशि कुर्वन्निद्रामुद्रितलोचनः कण्ठपीठप्रणयिना सुवर्णशृङ्खलेन प्रविष्टन्यग्रोधपादपेनोल्लम्बितः पञ्चतामञ्चितवान् । तस्य संस्कारानन्तरमावां प्रचलिताविति ताभ्यां विज्ञप्ते तत्कालं पौषधवेश्मान समागतो नृपः प्रशंसापरः कथं कथमित्यपवार्य द्वासप्ततिमहासामन्तैः समं समस्तसंघेन च प्रभुणा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy