________________
२३१
कुमारपाल प्रबन्धः वणिग्ब्राह्मणयोर्युज्यते कृताभक्ष्यनियमस्य क्षत्रियस्य तु न तेन पिशिताहारस्यानुस्मरणं भवतीत्थमेवेति पृथ्वीपतिरभिधाय पूर्वभक्षितस्याभक्ष्यस्य प्रायश्चित्तं याचितवान् । द्वात्रिंशद्दशनसंख्ययां द्वात्रिंशद्विहारान्कारयेति । राज्ञा तथाकृते, प्रभुदत्ते लग्ने वटपद्रकान्निजप्रासादे मूलनाय - प्रतिष्ठां कारयितुं श्रीपत्तनमुपेयुपि कान्हनाम्नि व्यवहारिणि तन्नगरमुख्ये प्रासादे तद्विम्बं मुक्का यावदुपहारान्गृहीत्वा स पुनरुपैति तावन्नृपतेरङ्गरकैर्निरुद्धे द्वारि अन्तः प्रवेशमलभमानः कियति काले व्यतिक्रान्ते उत्थितैर्द्वारपालकैर्व्यतीते प्रतिठाकले स तत्र प्रविश्य प्रभोः पादमूले लगित्वा सोपालम्मं रुरोद । प्रभुभिरन्यथा दुरपनेयं तस्य दुःखमिति विमृश्य रङ्गमण्डपाद्वहिर्भूत्वा नक्षत्रचारेण स्वं लग्नमुदितं व्योम्नि विलोक्य घटिकासंबन्धेन नैमित्तिकेन स्मिँल बिम्बानि प्रतिष्ठापितानि तेषां वत्रयमायुः सम्प्रतितने लग्ने तु प्रतिष्ठितमिदं चिरायुरिति प्रभुभिरादिष्टं । स तदैव प्रतिष्ठामकारयत्त१ AB अब्दान्तसंख्यया एकस्मिन्भिडबन्धे २ 4 प्रतिष्ठोत्सवे ३ D कूटघटिका.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org