________________
२३२ प्रबन्धचिन्तामणिः सर्गः ४ त्प्रभूक्तं तथैव जज्ञे ॥ इत्यभक्ष्याभक्षणप्रायश्चित्तप्रबन्धः॥ मयापहृते धने पुरा कश्चिन्मूषको मृतस्तत्प्रायश्चित्ते राज्ञा याचिते तच्छ्यसे प्रभुभिस्तन्नामाङ्कितो विहारः कारितः । तथाच कयापि व्यवहारिवध्वाऽ ज्ञातज्ञातिनामग्रामसंबन्धया पथि दिनत्रयं बुभुक्षितो नृपतिः शालिकरम्बेन सुहितीरुतस्तत्कृतज्ञत. या तत्पुण्याभिवृद्धये करम्बविहारं श्रीपत्तनेऽकारयत् ॥ तथा यूकाविहारश्चैवं । सपादलक्षदेशे कश्चिदविवेकी धनी केशसंमार्जनावसरे प्रियार्पितां यूकां करतले संगृह्य पीडाकारिणी तां तर्जयंश्चिरेण मृदित्वा व्यापदयामास । संनिहितेनामारिकारिपञ्चकुलेन स श्रीमदणहिल्लपुरे समानीय नृपाय निवेदितः । तदनु प्रभूणामादेशात्तद्दण्डपदे तस्य सर्वस्वेन तत्रैव यूकाविहारः कारितः॥ इति यूकाविहारप्रबन्धः॥ .. अथ स्तम्भतीर्थे सामान्ये सालिगवसहिकाप्रासादे यत्र प्रभूणां दीक्षाक्षणो बभूव रत्नबिम्बालंकृतस्तत्र निरुपमो जीर्णोद्धारः कारितः ॥ इति प्रभदीक्षावसहिकाया उदारप्रबन्धः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org