________________
२१६
प्रबन्धचिन्तामणिः सर्ग. ४
तत्रैव नृपतेर्यावज्जीवं पिशितप्रसन्नानियमं दत्वा ततः प्रत्यावृत्तौ गुरुक्षमापती श्रीमदणहिलपुरं प्रापतुः । श्रीजिनवदन निर्गमपावनीभिः शुद्ध सिद्धान्तगीर्भिः प्रतिबुद्धो नृपः परमार्हतबिरुदं भेजे । तद्भ्यर्थितः प्रभुः त्रिषष्टिशलाकापुरुषचरितं विंशतिवीतरागस्तुतिभिरुपेतं पवित्रं योगशास्त्रं रचयांचकार | प्रभोरादेशाच्चाज्ञाकारिष्वष्टादशदेशेषु चतुर्दशवत्सरप्रमितां सर्वभूतेषु मारिं निवारितवान् । तेषु तेषु च देशेषु चत्वारिंशदधिकानि चतुर्दशशतानि विहाराणां कारयामास । सम्यक्रकमूलानि द्वादव्रतान्यङ्गीकुर्वन्नऽदत्तादान परिहाररूपे तृतीयत्रते व्याख्यायमाने रुदतीवित्तदोषान् पापैकनिबन्धनान् ज्ञापितो नृपस्तदधिकृतं पञ्चकुलमाकार्य द्वासप्ततिलक्षप्रमाणं तदीयपट्टकं विपाट्य मुमोच । तस्मिन्मुक्ते ॥
न यन्मुक्तं पूर्वै रघुनहुषनाभागभरतप्रभृत्युवनाथैः कृतयुगकृतोत्यत्तिभिरपि । विमुञ्चन्कारुण्यात्तदपि रुदती वित्तमधुना कुमारक्षमापाल त्वमसि महतां मस्तमकमणिः ॥ १ ( १ मांसमादरयोर्निषेधं २ एकः क्षमायाः ष्टथिव्या अन्यः क्षान्तेः पतिः)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org