________________
कुमारपालप्रबन्धः २१५ hणेषु नक्षत्रमालादीपकेषु आकस्निके प्रकाशे द्वादशात्ममहसीव प्रसरति, नृपो नयने संभ्रमादुन्मृज्य यावदालोकते तावजलाधारोपरि जात्यजाम्बूनदद्युतिं चर्मचक्षुषां दुरालोकमप्रतिमरूपमसंभाव्यस्वरूपं तपस्विनमद्राक्षीत् । तं पदाङ्गष्टप्रभृति तज्जटावधि करतलेन संस्टश्य निश्चितदेवतावतारः पर्चाङ्गचुम्बितावनितलं प्रणिपत्य भक्त्या भूमानिति विज्ञपयामास । जगदीश भवदर्शनात्कृतार्थे दृशौ आदेशप्रसादात्कृतार्थय श्रवणयुगलमिति विज्ञप्य तूष्णी स्थिते मोहनिशादिनमुखात्तन्मुखादिति दिव्या गाराविरासीत् । राजन्नयं महर्षिः संर्वदेवतावतारः । अजिह्मपरब्रह्मावलोककरतलकलितमुक्ताफलवत्कालत्रयविज्ञातस्वरूपः । एतदुपदिष्टएवासंदिग्धो मुक्तिमार्ग इत्यादिश्य तिरोभूते भूतपतावुन्मनीभावं भजति भूपती, रेचितप्राणायामपवनः श्लथीकतासनबन्धः श्रीहेमचन्द्रो याजनमिति वाचमुवाच। तावदिष्टदैवतसंकेतात्यक्तराज्याभिमानो “जीवप आदावधार्यतामिति” व्याहृतिपरे गुरौ विनयनम्रमौलिर्यत्कृत्यमादिशेति व्याजहार । अथ .. (१ शिरः करद्वयं जानुद्वयं चेति पञ्चाङ्गम्, २ राजा ३ राजानं)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org