SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ कुमारपालप्रबन्धः २१३ नेन गाढमुपगूढसोमेश्वरलिङ्गस्य, एते जिनादपरं न नमस्कुर्वन्तीति मिथ्यादृग्वचसा भ्रान्तचित्तस्य श्रीहेमचन्द्र प्रति एवंविधा गरािविरासीत् । यदि युज्यते तवैतैरुपहारैर्मनोहारिभिः श्रीसोमेश्वरमर्चयन्तु भवन्तः। तत्तथेति प्रतिपद्य क्षितिपकोशादागतेन कमनीयेनोद्गमनीयेनालंकृततनुर्नृपतिनिदेशाच्छीबृहस्पतिना दत्तहस्तावलम्बः प्रासाददेहलीमधिरुह्य किंचिद्विचिन्त्य प्रकाशं । अस्मिप्रासादे कैलासनिवासी महादेवः साक्षादस्तीति रोमाञ्चकञ्चुकितां तनुं बिभ्राणो द्विगुणीक्रियतामुपहार इत्यादिश्य शिवपुराणोक्तदीक्षाविधिनाव्हाननावगुण्ठनमुद्रामन्वन्यासविसर्जनोपचारादिभिः पञ्चोपचारविधिभिः शिवमभ्यर्च्य तदन्ते यत्र तत्र समये यथा तथा योसि सोस्यभिधया यया तया । वीतदोषकुलुषः स चेद्भवानेक एव भगवन्नमोस्तु ते ॥ १ ॥ भवबीजाङ्करजनना रागाद्याः क्षयमुपागता यस्य । ब्रह्मा वा विष्णुर्वा महेश्वरो वा नमस्तस्मै ॥ २ ॥ इत्यादिस्तुतिभिः सकलराजलोकान्विते राज्ञि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy