SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ २१३ प्रबन्धचिन्तामणिः सर्गः १ - इति न्यायात्टेष्टिमांसादनदोषमप्यङ्गीकृत्य तदपवादानवादीत् । यदयममन्दछन्दानुवृत्तिपरः सेवाधर्मकुशलः केवलं प्रभोरभिमतमेव भाषते यद्येवं. तदा प्रातरूपेतः श्रीसोमेश्वरयात्रार्थमत्यर्थमभ्यर्थेत राज्ञा तथाकते सूरयः प्रोचुः । यद्बुभुक्षितस्य किं निमन्त्रणायह उत्कण्ठितस्य कि केकारवश्रावणमिति लोकरूढेस्तपस्विनामधिकततीर्थाधिकाराणां को नाम नृपतेरत्र निर्बन्धः । इत्थं गुरोरङ्गीकारे किं भवद्योग्यं सुखासनप्रभृति वाहनादि च लभ्यतामितीरिते वयं चरणचारेणैव संचरन्तः पुण्यमुपालमामहे परं वयमिदानीमाटछच मितैर्मितैःप्रयाणकैः श्रीशत्रुजयोज्जयन्तादिमहातीर्थानि नमस्कृत्य भवतां श्रीपत्तनप्रवेशे मिलिष्याम इत्युदीर्य तत्तथैव कृतवन्तः । नृपतेः समग्रसामय्या कतिपयैः प्रयाणकैः श्रीपत्तनं प्राप्तस्य श्रीहेमचन्द्रमुनीन्द्रमिलनादतिप्रमुदितस्य सन्मुखागतेन गण्ड. श्रीबृहस्पतिनानुगम्यमानस्य महोत्सवेन पुरं प्रविश्य श्रीसोमेश्वरप्रासादसोपानेष्वाकान्तेषु भूपीठलुण्ठनादरादनन्तरं चिरतरातुल्यायल्लकानुमा१ परोक्षनिन्दाकारी. २ मण्डस्तु भाषायां भई तपोधनः ] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy