________________
कुमारपालप्रबन्धः २११ नृपो मुमुदेतरी । अथ श्रीसोमनाथदेवस्य प्रासादारम्मे शिखरशिलानिवेशे संजाते सति पञ्चकुलप्रहितवापनिकाविज्ञप्तिका नृपः श्रीहेमचन्द्रस्य गुरोदर्शयन, अयं प्रासादप्रारम्भः कथं निष्प्रत्यूह प्रमाणभूमिमधिरोढेति पृथ्वीपरिवृढेनानुयुक्तः श्रीमाकिंचिदुचितं विचिन्त्य गुरुरूचिवान् । यदस्य धर्मकार्यस्यान्तरायपरिहाराय ध्वजारोपं यावदजिह्मब्रह्मसेवा, अथवा मद्यमांसनियमो द्वयोरेकतरं किमप्यङ्गीकरोतु नृप इत्यभिहिते तद्वचनमाक
ये मद्यमांसनियममभिलपन, श्रीनीलकण्ठोपरि विमुच्योदकं तं चाभिग्रहं जग्राह। संवत्सरद्वयेन तस्मिनप्रासादे कलाध्वजाधिरोपं यावन्निवृत्ते तं नियमं मुमुक्षुर्गुरूनऽनुज्ञापयंस्तैरूचे । यद्यनेन निजकीर्तनेन सार्द्धमर्द्धचन्द्रचूडं प्रेक्षितुमर्हसि, त. यात्रापर्यन्ते नियममोचनावसर इत्यभिधायोत्थिते श्रीहेमचन्द्रमनन्द्रेि पत्रिंशद्गुणैरुन्मीलन्नीलीरागरक्तहृदयस्तमेकमेव संसदि प्रशशंस सः। निर्निमित्तवैरिपरिजनस्तत्तेजःपुञ्जमसहिष्णुः उज्ज्वलगुणमभ्युदितं क्षुद्रो द्रष्टुं न कथमपि क्षमते। दग्ध्वा तनुमपि शलभो दीपं दीपार्चिषं हरति ॥१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org