________________
प्रबन्धचिन्तामणिः सर्गः 8
नवनवतिकलभाः एतावता नवनवतिलक्षाः । त्वं तु लक्षत्रयं समर्पयन्नौदार्यछद्मना कार्पण्यं प्रादुःकुरुषे | मत्सुतस्तावदनर्थ्यो भवदीया च भक्तिरनर्ध्यतमा तस्य मूल्ये सा भक्तिरस्तु शिवनिर्माल्यमिवास्टश्यो मे द्रव्यसंचयः । इत्थं चाविगे सुतस्य स्वरूपमभिदधाने प्रमोदपूरितचित्तः स मन्त्री अकुण्ठोत्कण्ठतया तं परिरभ्य साधु साध्विति बदन् श्रीमानुदयनः प्राह । मम पुत्रतया समर्पितो योगिमर्कट इव सर्वेषां जनानां नमस्कारं कुर्वन् केवलमपमानपात्रं भविता, गुरूणां दत्तस्तु गुरुपदं प्राप्य बालेन्दुरिव त्रिभुवननमस्करणीयो जायतेऽतो यथोचितं विचार्य व्याहरेत्यादिष्टः । स भवद्विचार एव प्रमाणमिति वदन् गुरुपार्श्वे नीतः सुतं गुरुभ्योऽदीदपत् । तदनु सुतस्य प्रव्रज्याकरणोत्सवश्वाविगेन चक्रे । अथ कुम्भयोनिरिवा प्रतिमप्रतिभाभिरामतया समस्तवाङमयाम्भोधिमुष्टिधयोऽभ्यस्त - समस्तविद्यास्थानो हेमचन्द्र इति गुरुदत्तनाम्ना प्रतीतः । सकल सिद्धान्तोपनिपन्निषण्णधीः षट्त्रिंशता सूरिगुणैरलंकृततनुर्गुरुभिः सूरिपदेऽभिषिक्तः ॥ इति मन्त्रिणोदयनेनोदितां हेमाचार्यजन्मप्रवृत्तिमाकर्ण्य
२१०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org