________________
कुमारपालप्रबन्धः २०९ तादृशोपि सम्प्रति ग्रामे नास्ति। अथ तैर्व्यवहारिभिस्त्वया दीयतामित्युक्ते स्वदोषोत्तारणाय मात्रा दाक्षिण्यादमात्रगुणपात्रं पुत्रस्तेभ्यो गुरुभ्यो ददे । तदनन्तरं तया श्रीदेवचन्द्रसूरिरिति तदीयमभिधानमबोधि । तैर्गुरुभिः स शिशुः शिष्यो भविष्यसीति पृष्टः, इमित्युच्चरन् प्रतिनिवृत्तस्तैः समं कर्णावत्यामाजगाम । उदयनमन्निगृहे तत्सुतैः समं बालधारकैः पाल्पमानो यावदास्ते तावता ग्रामान्तरादागतश्चाविगस्तं उत्तान्तं परिज्ञाय पत्रदर्शनावधिसंन्पस्तसमस्ताहारस्तेषां गुरूणां नाम मत्वा कर्णावतीं प्राप । तदसतो समागत्य कुपितः पितेषत्तान्प्रणनामा गुरुभिः सुतानुसारेणोपलक्ष्य विचक्षणतया विविधाभिरावर्जनाभिरावर्जितः,तत्रानीतेनोदयनमन्त्रिणा धर्मबन्धुबुद्ध्या निजमन्दिरे नीत्वा ज्यायःसहोदरभक्त्या भोजयांचवे । तदनु चाङ्गदेवसुतं तदुत्सङ्गे निवेश्य पञ्चागप्रसादसहितं दु. कूलत्रयं प्रत्यक्ष लक्षत्रयं चोपनीय सभक्तिकमावर्जितः । तं प्रति चाविगः प्राह । क्षत्रियस्य मूल्ये भशीत्यधिकसहस्रं तुरगस्य मूल्ये पश्चाशदधिकानि सप्तदशशतानि अकिंचित्करस्यापि वणिजो मूल्ये
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org