________________
चिन्तामणिः सर्ग. ४ सतीजनमतल्लिका जिनशासनदेवीव तत्सधर्मचारिणी शरीरिणीव श्रीः पाहिणीनाम्री चामुन्डागोनशयोरीयाक्षरेणाङ्कितनामा तयोः पुत्रश्चाङ्गदेवोभूत् । स चाष्टवर्षदेश्यः श्रीदेवचन्द्राचार्येषु श्रीपत्तनात्तीर्थयात्राप्रस्थितेषु धुन्धुक्के श्री मोढवसाहिकायां देवनमस्करणाय प्राप्तेषु सिंहासन स्थिततदीयनिषद्याया उपरि सवयोभिः समं रममाणः शिशुभिः सहसा निषाद तदङ्गप्रत्यङ्गानां जगद्विलक्षणानि लक्षणानि प्रेक्ष्य । अयं यदि क्षत्रियकुले जातस्तदा सार्वभौचक्रवर्ती यदि वणिक्विप्रकुले जातस्तदा महामात्यश्वेदर्शनं प्रतिपद्यते तदा युगप्रधान इंव कलिकालेपि कृतयुगमवतारयति स आचार्य इति विचार्य तन्नगरव्यवहारिभिः समं तल्लिप्सया चाविगौकः प्राप्य तस्मिंश्चाविगे ग्रामान्तरभाजि तत्पया विवेकिन्या स्वागतादिभिः परितोषिताः श्रीमन्तस्त्वत्पुत्रं याचितुमिहागता इति व्याहरन्तोऽथ सा हर्षाणि मुञ्चती स्वं रत्नगर्भ मन्यमाना श्रीसंघस्तथिकृतां मान्यः स मत्सूनं याचते इति हर्षास्पदेऽपि विषादः, एतस्य पिता नितान्त मिथ्यादृष्टिः ।
१ ( गोत्रजायक्षयोः ) २ CD श्रीसंघः
२०८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org