________________
२०७
कुमारपालप्रबन्धः * सत्ति ही गिहिमत्ते य' रायपिण्डे किमिच्छए । इति तत्संबोधाच्च मत्कृतचित्तः श्रीपत्तनं प्राप । भूपोऽन्यदा मुनिं पप्रच्छ कयापि युक्तयाऽस्माकमपि यशः प्रसरः कल्पान्तस्थायी भवतीति तदीयां गिरं श्रुत्वा विक्रमार्क इव विश्वस्पानृण्यकरणात्, यद्वा सोमेश्वरस्य काष्टमयं प्रासादं वारिधिशीकरनिकरैरासन्नाम्मैः शीर्णप्रायं युगान्तस्थायिकीर्त्तये समुद्धरेति चन्द्रातपनिभया श्री हेमचन्द्रगिरोल्लसन्मुदम्मोधिर्नृपस्तमेव महर्षि पितरं गुरुं दैवतं मन्यमानो विजानाति । निरन्तरं द्विजाननिन्दंस्ततः प्रासादोद्धाराय तदैव दैवज्ञनिवेदितसुलग्नस्तत्र पञ्चकुलं प्रस्थाप्य प्रासादप्रारम्भमचीकरत् । अन्यदा श्रीहेमचन्द्रस्य लोकोत्तरैर्गुणैः परिहृत दहृयो नृपो मन्त्रिश्री उदयनमिति पप्रच्छ। एतादृशं पुरुषरत्नं समस्तवंशावतंसं देशे च समस्तगुणाकरे नगरे च कस्मि• समुत्पन्नमिति नृपादेशादनुस मन्त्री जन्मप्रभृति तच्चरित्रं पवित्रमित्थमाह । अर्द्वाष्टमनामनि देशे धुन्धुक्कनगरे श्रीमन्मोढवंशे चादिगनामा व्यवहारी
*
' शक्ते हि गृहिमात्रे राजपिण्डं किमर्थमिच्छति मुनिरिति १ A B सन्निगिहिमित्तेय २० अन्त
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org