________________
२०६ प्रबन्धचिन्तामाणिः सर्ग. ४ अधाम धामधामार्क वयमेव हृदि स्थितम्॥ यस्यास्तव्यसने ज्ञाते त्यजामो भोजनं यतः॥१॥
इति प्रामाण्यनैपुण्याद्वयमेव सूर्यभक्ताः नैते “तन्मुखबाधे जाते” कदाचिदेवतावसरक्षणे सौधमागते मोहान्धकारधिक्कारचन्द्रे श्रीहेमचन्द्रे यशश्चन्द्रगणिना रजोहरणेनासनपदं प्रमार्ण्य काम्बले तत्र निहिते, अज्ञाततत्त्वतया किमेतदिति नृपेण पृष्टः प्राह । कदाचिदिह कोपि जन्तुर्भवति तदाबाधापरिहारायाऽसौ प्रयत्नो, यदा प्रत्यक्षतया जन्तुनिरीक्ष्यते तदैवेदं युज्यते नापरथा वृथाप्रयासहेतुत्वादिति युक्तियुक्तां नृपोक्तिमाकर्ण्य तैः सूरिभिरभिदधे । गजतुरगाद्या चमूः किं प्रतिनृपतिरिपावुपस्थिते क्रियते उत पूर्वमेव यथायं राजव्यवहारस्तथा धर्मव्यवहारोपीति तद्गुणरञ्जितहृदा पूर्वप्रतिपन्ने राज्ये दीयमाने सर्वशास्त्रविरोधहेतुत्वात् । यदाह ॥ राजप्रतिग्रहदग्धानां ब्राह्मणानां यधिष्ठिर। दग्धानामिव बीजानां पुनर्जन्म न विद्यते ॥ १ इदं पुराणोक्तं । तथाच जैनागमः ॥
१ A C आधाम २ प्राप्ते
३ तत्त्वत इति तन्मुखबन्धे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org