SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ कुमारपालप्रबन्धः २०५ वद्भिः सह मैत्र्यमभिलषामीति व्याहरन् , अथाप्रतिषिद्धमनुमतमिति तस्य महर्षेः परीक्षितचित्तवृत्तिः श्रीमुखेन स नृपः स्खलनाकारिणां वेलिणां सर्वसमयकं ददौ । अथ तत्र गतायाते संजायमाने सूरेगें. णमामस्तवं कुर्वत्युर्वीपतौ पुरोधा विराधादागिः प्राह। विश्वामित्रपराशरप्रभृतयो येऽन्येम्बुपत्राशिनस्तेपि स्त्रीमुखपङ्कजं सुललितं दृष्ट्वैव मोहं गताः। आहारं सघृतं पयोदधियुतं भुञ्जन्ति ये मानवा-- स्तेषामिन्द्रियनिग्रहः कथमहो दम्भः समालोक्य ताम् ॥ १॥ इति तद्वचनानन्तरं हेमचन्द्रः। सिंहो बली द्विरदशूकरमांसभोजी संवत्सरेण रतमेति किलैकवेलम् । पारापतः खरशिलाकणभोजनोऽपि कामी भवत्यनुदिनं वद कोऽत्र हेतुः ।। १ तन्मुखमुद्राकारिणि प्रत्युत्तरेऽभिहिते सति, नृपप्रत्यक्ष केनापि मत्सरिणैते सिताम्बराः सूर्यमपि न मन्यन्ते' इत्यभिहिते १ c भजन्ते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy