SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ ७९८ प्रबन्धचिन्तामाणःसर्गः ४ क्रुश्यमाणः क्रोधादशं तत्याज । अथ सामलनामाऽमात्रगुणपात्रं महामानं पुष्कलवसुदानपूर्वकं तत्पदे नियोजितः सन् राज्ञा स्वकलहपञ्चानननामानमनेकपं प्रक्षरितं कृत्वा तदुपरि नृपासनं निवेश्य तत्र षट्त्रिंशदायुधानि नियोजयन्सकलकलाकलापसंपूर्णः कलापके चरणौ नियोज्य स्वयमारूढवान तदासनस्थश्चौलुक्यभूपालोपि संग्रामाधिकृतपुरुषैरुत्थापनिका कार्यमाणेषु बाहडकुमारभेदादाज्ञाभङ्गकारिषु, इति सैन्यविप्लवमाकलय्य तं निपादिनमादिदेश पुरो गन्तुं, सन्मुखसेनायां सपादलक्षक्षितिपतिमतङ्गगजं छत्रचामरसंकेतादुपलक्ष्य विघटिते कटकबन्धे मयैवैकाकिना योद्धव्यमिति निर्णीय तेनाधोरणेन स्वसिन्धुरं तत्सन्निधौ नेतुमादिशन्नपि तमपि तथाऽकुर्वाणं विलोक्य त्वमपि विघटितासीत्यादिशंस्तेन विज्ञपयांचके । स्वामिन्कलहपञ्चाननो हस्ती सामलनामा हस्तिपकश्च द्वयं युगान्तेपि न विघटते परं परस्मिन्कु. म्भिकुम्भे बाहडनामाकुमारस्तारध्वनिराधिरूढोस्ति यस्य हक्कया हस्तिनोपि भज्यन्ते इत्युत्कोत्तरीया१ A विघटीयप्यते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy