SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ कुमारपालप्रबन्धः न तहहेन्मामवहेलितोपि । इति भ्रमादङ्गालपर्वणापि स्टशत नो दीप इवावनीपः ॥७॥ __ इति विमृशद्भिः समन्ततः सामन्तैर्भयभ्रान्तचित्तैस्ततः प्रभृति स नृपतिः प्रतिपदं सिषेवे । तेन राज्ञा पूर्वोपकारकर्नुः श्रीमदुदयनस्याङ्गजः श्रीवाग्भटदेवनामा महामात्यश्चके । आलिङ्गनामा ज्यायान्प्रधानः।महं० उदयनदेवस्य पुत्रो वाहडनामा कुमारः श्रीसिद्धराजस्य प्रतिपन्नपुत्रः श्रीकुमारपालदेवस्यावज्ञामेव मन्यमानः२ सपादलक्षीयभूपतेः पत्तिभावं बभार । तेन श्रीकुमारपालभूपालेन सह विग्रहं चिकीर्षुणा तत्रत्यं सकलमपि सामन्तलोकं लञ्चोपचारदानैः स्वायत्तीकृत्य दुर्वारस्कन्धावारोपेतं सपादलक्षक्षोणीपतिं सहादाय देशसीमान्तमागतः। अथ चौलुक्यचक्रवर्ती अभ्यमित्रीणतया स्कन्धावारसमीपे निजं चमूसमूहं निवेशयामास । निर्णीते समरवासरे निष्कण्टके क्रियमाणे सीमनि सजीक्रियमाणायां चतुरङ्गसेनायां चउलिङ्गनामा पट्टहस्तिनो हस्तिपकः कस्मिन्नप्यागसि नृपेणा१ D स्यश्योपि २ C आज्ञामवमन्यमानः ३ B दानादिना Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy