SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ १९६ प्रबन्धचन्तामणिः सर्ग. ४ नमोऽकारि । स प्रौढतया देशान्तरपरिभ्रमण नैपुण्येन राज्यशास्ति स्वयं कुर्वन् राजवृद्धानामरोचमानस्तैः संभूय व्यापादयितुं व्यवसितः । सान्धकारगोपुरेषु न्यस्तेषु धातुकेषु प्राक्तनशुभकर्मणा प्रेरितेन केनाण्याप्तेन ज्ञापितवृत्तान्तस्तं प्रवेशं विहाय द्वारान्तरेण वप्रं प्रविश्य तानि प्रधानान्यन्तकपुरीं प्राहिणोत् । स भावुक मण्डलेश्वरः शालकसंबन्धाद्राज्यस्थापन | चार्यत्वाच्च राज्ञो दुरवस्थामर्माणि जल्पति । पश्चाद्राज्ञेोक्तं हे भावुक राजपटिकार्या सर्वावसरे च प्राक्तन दुरवस्थामर्मनर्म' न भाषणीयं त्वयाऽतः परमेवं विधं सभासमक्षं नो वाच्यं विजने तु यदृच्छया वाच्यमिति राज्ञोपरुद्धः । उत्कटतयाऽवज्ञावशाच्च रे अनात्मज्ञ इदानीमेव पादौ त्यजसीति भाषमाणो मर्तुकामः ऊषधमिव तद्वचः पथ्यमपि न जग्राह । नृपस्तदाकारसंवरणेनाऽपन्हवं विधायाऽपरस्मिन्दिवसे नृपसंकेतितैर्मल्लैस्तदङ्गभङ्कं कृत्वा नेत्रयुगं समुद्धृत्य ततस्तं तदावासे प्रस्थापयामास ॥ आदौ मयैवायमदीपि नूनं १ दुरवस्थया समं मर्म Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy