SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ १९३ कुमारपालप्रबन्धः समुपचीयमाने तं तदन्तर्निधाय तेषु स्वस्थानमागतेषु पदिकेन पदे तत्रानीते सर्वथा तवासंभावनया कुन्ताग्रेण भिद्यमानेपि तस्मिंस्तमनासाद्य व्यावृत्ते राजसैन्ये द्वितीयेऽहनि क्षेत्राधिकृतैस्ततः स्थानादुद्धृतः पुरतः कापि प्रातरांन्तर्व्रजन क्वापि तरुच्छाये विश्रान्तः सन् बिलान्मूषकं मुखेन रू प्यंनाणकमाकर्षन्तं निभृतया दृशा विलोक्य यावदेकविंशसंख्यानि दृष्ट्वा पुनस्तेभ्य एकं गृहीत्वा बिलं प्रविष्ठे पाश्चात्यानि तु सर्वाणि स गृही. त्वा यावन्निभूतीभवति तावत्स तान्यनवलोक्य तदय विपेदे । स तच्छोकव्याकुलितमानसश्चिरं परितप्य पुरतो व्रजन् कयापीभ्यवध्वा श्वशुरगृहात्पितृगृहं व्रजन्त्या, पथि पाथेयाभावाद्दिनत्रयं क्षुरक्षाम कुक्षिर्भ्रातृवात्सल्यात्कर्पूरपरिमलशालिशालिकरम्बेर्ण सुहितीचक्रे । तदनु स विविधानि देशान्तराणि परिभ्रमन्स्तम्भतीर्थे महं० श्रीउदयनपार्श्वे श म्बलें याचितुमागतः । तं पौषधशालायामागतमाकये तत्रागते तस्मिन्नुदयनेन पृष्टः श्री हेमचन्द्राचार्यः " [ १ दूर शून्याध्वनि २ दधियुक्त सक्तना ३ सुतृप्तः कृतः ४ पाथेयं द्रव्यादि ५ जैनीयव्रतनियमविशेषाचरणस्थानं प्रसिद्धं ] 24 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy