________________
१९१ कुमारपालप्रबन्धः अथ परमाईतश्रीकुमारपालप्रबन्धः प्रारभ्यते ॥
॥ श्रीमदणाहलपुरपत्तने वृहति श्रीभीमदेवे साम्राज्यं पालयति श्रीभीमेश्वरस्य पुरे चउलादेवीनानी' पण्याङ्गना पत्तने प्रसिद्ध गुणपात्रं रूपपात्रं च कुलयोषितोप्यतिशायिनी प्राज्यमर्यादा नृपतिर्विमृश्य तस्यास्तदृत्तपरीक्षानिमित्तं सपादलक्ष्यमूल्यांक्षुरिकां निजानुचरैस्तस्यै ग्रहणके दापयामास । औत्सुक्यात्तस्यामेव निशि बहिरावासे प्रस्थानलग्रमसाधयत् । नृपो वर्षद्वयं यावन्मालवकमण्डले विग्रहाग्रहात्तस्थौ । सा चउलादेवी तद्वित्तग्रहणकप्रामाण्येन तद्वर्षद्वयं परिहृतसर्वपुरुषाशीललीलयैव तस्थौ । निस्सीमपराक्रमो भीमः कृती स्वस्थानमागतो जनपरंपरया तस्यास्तां प्रवृत्तिमवगम्य तामन्तःपुरे न्यधात् । तदङ्गजो हरिपालस्तत्सुर्तस्त्रिभुवनपालस्तत्पुत्रः कुमारपालदेवः । स तु विदितधर्मोपि कपापरः परनारीसहोदरश्चस तु सामुद्रिकवेदिभिर्भवदनन्तरमयं नृपो भवि
१० चऊलादेवोनामा २ क चातीव तस्याः ३ D विग्रहाय ४ 3 सा तु बउला ५ A तृतीयवर्षे ६ हरिपालदेवः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org