________________
१८८ प्रबन्धचिन्तामणिः सर्ग. ३ स्मिन्वृत्तान्ते तत्कर्मणः प्रशंसां विफलीकर्तुं स्वप्रशं. साकारिणः प्रेष्यस्यापरस्मिन्नहन्यऽनिवेदिततत्त्वस्य प्रसादलेखमार्पयत् । यदस्मै वण्ठाय तुरङ्गमशतस्य सामन्तता देयेत्यालिस्यं तं महामात्यश्रीसान्तूपार्वं प्राहिणोत् । अथ स यावच्चन्द्रशालाया नि:श्रेण्यामवरोहति तावत्मस्खलितपदः पृथिव्यां पतदीषदङ्गभङ्गमङ्गीकतवान् । तत्पृष्टानुगामिनाऽपरेण वण्ठेन किमेतदिति पृष्ठे तेन स्वस्वरूपे निवेदिते स मञ्चकन्यस्तो गृहं गत्वा तमपरस्मैर समर्पितवान् । तत्प्रमाणेन महामात्यस्तस्मै शततुरङ्गमसामन्ततां ददौ । अथ तयोर्यथावदृत्तान्तेऽवधारिते नृपतिः कर्मैव बलीय इति तत्मभृति मेने यथा ॥ 'नवाकृतिः फलति नैव कुलं न शीलं विद्या न चापि मनुजेषु कता न सेवा । पुण्यानि पूर्वतपसा किल संचितानि * वल्लभदेवकृतसुभाषितावल्यांश्लो. ३१०० भदन्त अश्वघोषस्य ॥ विद्या सहस्त्रगुणिता न च वाग्विशुद्धिः। कर्माणि पूर्वशुभसंचयसंचितानीति पाठभेदः १ C आलेख्य २A प्रसादेलखं ३ A D तपोपि न च यत्नकतापि सेवा ४ B D भाग्यानि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org