________________
१७६ प्रबन्धचिन्तामणिः सर्गः ३ इति चणकविक्रयिवणिजः प्रबन्धः ॥ - अथान्यास्यां निशि नृपः कर्णमेरुप्रासादात्प्रेक्षणं प्रेक्ष्य प्रत्यावृत्तः कस्यापि व्यवहारिणो हम्र्ये बहून्दीपानालोक्य किमेतदिति पृष्ठः स लक्षदीपास्ताविज्ञपयामास । असौ धन्य इति । स्वसौधमध्यमध्यास्य व्यतीतक्षणदाक्षणः . स धन्यमानी तं सदः संमानीयेत्यादिदेश। एतेषां सदा प्रदीपानांप्रज्वालनेन भवतः सदा प्रदीपनं तद्भवदीयवित्तस्य कियन्तो लक्षा इत्यभिहितः स विद्यमानांश्चतुरशीतिलक्षानिवेदयामास। तदनुकम्याकम्पमानमानसः स्वकोशात्षोडशलक्षान्प्रसादकत्य तत्सौधे कोटिध्वजमध्यारोपयामास ॥ इति षोडशलक्षप्रबन्धः ॥ ___ अथान्यस्मिन्नवसरे राज्ञा कदाचिद्दालाकदेशे दुर्गभूमौ सिंहपुरमिति ब्राह्मणानामग्रहारः स्थापितस्तच्छाशने षडुत्तरशतं ग्रामाः। अथ श्रीसिद्धराजः कदाचिनिसहनादैर्भातैविप्रैर्देशमध्यनिवासं याचितः साभ्रमतीतीरवर्तिनमाशाम्बिलीयामं तेभ्यो ददौ । तेषां च सिंहपुरा धान्यान्यादाय गच्छता१ A स धन्यमानी. २ A B आशाम्बली.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org