SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ सिद्धराजप्रबन्धः १७५ परिज्ञानं सभक्तिकं सर्वदर्शनाराधनेनाऽविदितस्वरूपमपि मुक्तिप्रदं भवतीति निर्णयः। इति हेमचन्द्राचाः । सर्वदर्शनसन्माने निवेदिते सति श्रीसिद्धराजः सर्वधर्माराधनां चकार ॥ इति सर्वदर्शनमान्यताप्रबन्धः॥ ॥अथान्यदा निशि कर्णमेरुप्रासादे नृपतिर्नाटकं किलोकयन् केनापि चणकविक्रयकारिणा वणिग्मात्रेण स्कन्धेन स्कन्धन्यस्तहस्तेन तल्लीलायितेन चित्रयिमाणमानसः स भूयो भूयस्तदीयमानं सकर्पूरबीटकं ‘परितोषिते गृहुन नाटकविसर्जनावसरेनुचरैस्तद्गहादिसम्यगवगम्य सौधमासाद्य सुष्वाप। प्रत्यूषे भूपः कृतप्राभातिककृत्यःसर्वावसरेऽलंकतसभामण्डपस्तं चणकविक्रयकारिणं विपणिनमाकार्य निशि स्कन्धन्यस्तहस्तभारेण ग्रीवा बाधते इत्यभिहिते तत्कालोप्तन्नमतिर्विज्ञपयामासा देव आसमुद्रान्तभूभारे स्कन्धाधिरुढे यदि स्वामिनः न बाधते स्कन्ध. स्तदा तृणमात्रस्य निर्जीवस्य मम पण्याजीवस्य, भारेण स्वामिनः को स्कन्धबाधेति तदीयौचित्यवि. ज्ञपनेन प्रमादावान्नृपः पारितोषिकं ददौ ॥ १ A B संमते. २ D भारेण का. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy