SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ सिद्धराजप्रबन्धः प्रतन्यमाने दिग्वाससो मुखे मुद्रापयिष्यन्तीत्यादेशानन्तरं गुप्तवृत्त्या कुमुचन्द्रसन्निधौ पण्डितान्प्रस्थाप्य कस्मिन् शास्त्रे विशेषकौशलमिति ज्ञापिते । देवादेशयं किं करोमि सहसा लङ्कामिहैवानये जम्बूद्दीपमितो नयेयमथवा वारांनिधिं शोषये । हेलोत्पाटिततुङ्गपर्वतशिरोग्रावत्रिनेत्राचल" - क्षेपक्षोभविवर्द्धमानसलिलं बघ्नामि वा वारिधिर्मे १ इति तदुक्तिश्रवणात्सिद्धान्तकुशलतां तस्या. ल्पीयसीमवगम्य जितं मन्यमानाभ्यां श्रीदेवचार्यश्रीहेमचन्द्राभ्यां प्रमुदितं । अथ देवसूरिप्रभो रत्नप्रभाभिधानः प्रथमशिष्यः क्षपामुखे गुप्तवेषतया कुमुदचन्द्रस्य गुरूदरे गतः । तेन कस्त्वमित्यभिहिते अहं देवः । देवः कः । अहं । अहं कः । त्वं । त्वं कः । श्वा । श्वाकः । त्वं ॥ कः अहं देव इति तयोरुक्तिप्रत्युक्तबन्धे चक्रभ्रमं भ्रमति, आत्मानं देवं दिगम्बरं श्वानं च संस्थाप्य यथागतं जगाम ॥ तेन चक्रदोषप्रादुष्करणेन विषादनिषादसंपर्कात् । हंहो श्वेतपटाः किमेष विकटाटोपोक्तिसंटङ्कितैः १ D देवाज्ञापय. २ C अथानये किं ३ विन्ध्यमन्दरहिमस्वर्णत्रिकूटाचल. [ त्रिनेत्रस्य शिवस्याचलो हिमवान् ] ४ D वारांनिधि 4 Jain Education International १६.३ For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy