SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ १६२ प्रबन्धचिन्तामाणिः सर्ग. ३ चार्यजामि तपोधनां चेटकैराधिष्ठितां विधाय नृ. त्यजलानयनादिभिर्विविधाभिार्वडम्बनाभिर्विडम्ब्य तेषु चेटकेषुपट्टतर्षु तान् भृशं पराभवान्निर्भलनपरानपवार्य२ श्रीदेवसूरिभिरुक्तं वादविद्याविनोदाय अवता पत्तने गन्तव्यं । तत्र राजसभायां भवता सह वादं करिष्याम इत्यादिष्टे स कृतकृत्यमनाः स आशावासनः श्रीपत्तनपरिसरं प्राप्तः । श्रीसिद्धराजेन मातामहगुरुरिति प्रत्युगमादिना सत्कृतस्तत्रावासान्दत्वा तस्थौ - श्रीसिद्धराजेन वादनिष्णाततां दृष्टाः श्रीहेमाचार्याश्वतस्टेषु विद्यासु परं प्रावीण्यं बिभ्राणं जैनमुनिगजयथाधिपं सिताम्बरशासनवजप्राकारं नृपसभागृङ्गारहारं कर्णावतीस्थितं श्रीदेवाचार्य वादविद्याविदं वादीभकण्ठीरवं प्राहुः। अथ राज्ञा तदाव्हानाय प्रेषितविज्ञप्तिकायां श्रीसंघलेखेन सममागतायां श्रीदेवसूरयः पत्तनं प्राप्य नृपोपरोधाद्वाग्दे. वीमाराधयामासुः । तया तु वादिवेतालीयश्रीशान्तिसूरिविरचितोत्तराध्ययनवृहदृत्तौ दिगम्बरवादस्थले चतुरशीतिविकल्पजालोपन्यासे भवद्भिः १ c उपाहृतेषु. (२ निवार्य) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy