________________
सिद्धराजप्रबन्धः १६१ रुह्य गङ्गोदकेन श्रीयुगादिदेवं सूपयन् पर्वतसमीपवर्तिग्रामद्वादशकशासनं श्रीदेवार्चायै विप्राणयामास । तीर्थदर्शनाचोन्मुद्रितलोचन इवामृताभिषिक्त इव जातः। अत्र पर्वते सल्लकीवनसरित्पूरसंकुले इहैव विन्ध्यं करिष्यामीत्यवन्ध्यप्रतिज्ञो, हस्तियूथनिष्यत्नये विहस्तमनसंमनोरथेनापि तीर्थविध्वंसपातकिनं धिग्मामिति श्रीदेवपादानां पुरतो राजलोकविदितं स्वं निनिन्द । सानन्दो गिरेवततार ॥ अथ श्रीदेवसूरिचरितं व्याख्यास्यामः॥
तस्मिन्नवसरे कुमुदचन्द्रनामा दिगम्बरस्तेषु दे. शेषु चतुरशीतिवादैादिनो निर्जित्य कर्णाटदशाद्र्जरदेशं जेतुकामः कर्णावतीं प्राप। तत्र भट्टारकश्रीदेवसूरीणां चातुर्मासके स्थितानांश्रीअरिष्टनेमिप्रासादे धर्मशास्त्रव्याख्याक्षणे वचनचातुरीमनुच्छिष्टामाकर्ण्य तत्पण्डितैस्तवृत्तान्ते निवेदिते कुमुदचन्द्रस्तेषामुपाश्रये सतृणमुदकं प्रक्षेपितवान् । अथ तैर्महर्षिभिः पण्डितैः खण्डनतर्कादिप्रमाणप्रवीणैस्तस्मिन्नर्थेऽनाकर्णिततयाऽवज्ञाते सति श्रीदेवा
१ विन्ध्यवनं रचयिष्यामीति. २ (व्याकुलचित्तं ३ शान्त्याचार्यकृतोत्तराध्ययनवृत्तौ]
21
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org