________________
१६० प्रबन्धचिन्तामाणिः सर्ग. ३ तः। तद्देशव्यवहारिणां पार्थात्तावहव्यमुपढौक्योजयन्तप्रासादजीर्णोद्धारपुण्यमुदाहितद्रव्यं वा योरेकमवधारयतु देवः । इति तेनोक्ते श्रीसिद्धराजस्तबुद्धिकौशल्यचमत्कृतस्तीर्थोद्धारपुण्यमेवोररीचकार । स पुनस्तस्य देशस्याधिकारमाधिगम्य शजयोजयन्ततीर्थयोदशयोजनयोर्यावहुकूलमयं महाध्वजं ददौ ॥ इति चतकोद्धारप्रबन्धः ॥
अथ भूयः सोमेश्वरयात्रायाः प्रत्यावृत्तः श्रीसिद्धाधिपो रैवतोपत्यकायां दत्तावासस्तदेवस्तत्कीर्तनं दिक्षुः मत्सरोत्सेकपर्द्विजन्माभिः सजलाधारलिङ्गाकारोयं गिरिरित्पत्र पादस्पर्श नाहतीति कृतकवचनैर्निषिद्धस्तत्र पूजां प्रस्थाप्य स्वयं शत्रुजयमहातीर्थसन्निधौ स्कन्धावारं न्यधात् । तत्र पूवोक्तैर्जातिपिशुनैः कृपाणिकापाणिीभरकपैस्तीर्थमार्गे निरुद्धे सति श्रीसिद्धाधिपो रजनीमुखे कृतकार्पः टिकवेषः स्कन्धनिहितविहङ्गिकोभयपक्षन्यस्तगगोदकस्तन्मध्येभूत्वाऽपरिज्ञातस्वरूप एव गिरिमधि
१ A B द्वादशयोजनायामं २ स्वं ३ D प्राकतवेषः ४ उभयतो बद्धशिक्यः पर्याहार्यो भारो यत्र गरिकादौ विहङ्गिकेत्युच्यते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org