________________
सिद्धराज प्रबन्धः
१४९
श्रूयन्ते यदि तावदर्थमधुराः श्री हेमचन्द्रोक्तयः ॥ १ ॥ अथ श्रीसिद्ध राजेन पत्तने यशोवर्मराज्ञस्त्रि पुरुष प्रभृतीन्सर्वानपि राजप्रासादान्सहस्रलिङ्गप्रभृतीनि च धर्म. स्थानानि दर्शयित्वा प्रतिवर्ष देवदाय पदे कोटिद्रव्य. व्ययं निवेद्यैतत्सुन्दरमसुन्दरं वेति यशोवर्मा ष्टष्ट इत्यवादीत् । अहं ह्यष्टादशलक्षप्रमाणमालवदेशाधिपस्त्वत्तः पराभवपात्रं कथं भवेयं, परं महाकालदेवस्य दत्तपूर्वत्वाद्देवद्रव्यं मालवकः । तद्भुञ्जानास्तत्प्रभावादुदितास्तामिता वर्त्तामहे । भवदीयान्वयराजानोऽ प्येतावद्देद्रव्यव्ययनिर्वाहाक्षमां लुप्तसर्वदेवदायपदा विपदां पदं भविष्यन्ति । अथ सिद्धराजः कदापि सिद्धपुरे रुद्रमहाकालप्रासादं कारयितुकामः कमपि स्थपतिं स्वसंनिधौ स्थापयित्वा प्रासादप्रारम्भलग्ने तदीयकलासिकां लक्षद्रव्येणोत्तमर्णगृहीतां मोचयामास । तां वंशशलाकामयीमालोक्य किमेतदिति राजा पप्रच्छ । ततो मया प्रभोरौदार्यपरिक्षानिमित्तमेतत्कृतमिति स्थपतिरुक्तवान् । ततस्तद्रव्यमनिच्छतेऽपि नृपतिनार्पितं । ततः क्रमेर्णे
१ C वापयित्वा २ देवद्रव्यव्ययमनिर्वहन्तो. ३ मूलनाशं विनक्ष्यन्ति ४ तद्द्रव्यप्रत्यर्पणापूर्व.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org