SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ १४८ प्रबन्धचिन्तामणिः सर्ग. ३ तत्पुस्तकमारोप्य सितातपवारणे ध्रियमाणे चामराहिणीचामरयुग्मवीज्यमानं नृपमन्दिरमानीय प्राज्यवर्यपूजापूर्व कोशागारे न्यधीयत । ततो राजाज्ञयान्यानि व्याकरणान्यपहाय तस्मिन्नेव व्याकरणे सर्वत्राधीयमाने केनापि मत्सरिणा भवदन्वयवर्णना विरहितं व्याकरणमित्युक्ते श्रीहेमाचार्यः क्रुद्धं राजानं राजमानुषादवगम्य द्वात्रिंशच्लोकान्नूतनान्निर्माय द्वात्रिंशत्सूत्रितपादेषु तान्संबन्धं दधानानेव लेखयित्वा प्रातर्नृपसभायां वाच्यमाने व्याकरणे चौलुक्यवंशोपश्लोककेन श्लोकान्वाचयन्नृपं संतोषयामास ॥ यथा ॥ हरिरिव बलिबन्धकरस्त्रिशक्तियुक्तः पिनाकपाणिरिव । कमलाश्रयश्च विधिरिव जयति श्रीमूलराजनृपः १ इत्यादि ॥ तथा च श्री सिद्धराजदिग्विजयवर्णने द्वयाश्रयनामा ग्रन्थः कृतः ॥ भ्रातः संवृणु पाणिनि प्रलपितं कातन्त्रकन्था वृथा मा कार्षीः कटु शाकटायन वचः क्षुद्रेण चान्द्रेण किम् - कः कण्ठाभरणादिभिर्बटर यत्यात्मानमन्यैरपि १D संबद्धान २चौ क्यवंशेोपश्लेाकान् द्वत्रिंशत्सूत्रपादान्तेषु द्वात्रिंशत् श्लोकानवलोक्य प्रमुदितो राजा व्याकरणं विस्तरयामास. (३ मूर्खयति) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy