SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ सिद्धराजप्रबन्धः १४७ समर्प्य तदग्रासने वयं गजाधिरूढाः पुरमध्ये प्रवेशं करिष्याम इति राज्ञः प्रतिश्रवमाकर्ण्य मुञ्जालमन्त्रिणा प्रधानवृत्ति मुञ्चता किमिति राज्ञा नि मा स्म सन्धिं विजानन्तु मा स्म जानन्तु विग्रहम् । आख्यातं यदि गृण्वन्ति भूपास्तेनैव पण्डितः ॥ १ ॥ इति नीतिशास्त्रोपदेशात्स्वबुद्धयैव स्वामिना प्रतिज्ञातोयमर्थः सर्वथायतौ न हित इत्युक्तं । ततो वरमसून्परिहरामि न तु विश्वविदितं प्रतिश्रवमिति नृपेणोक्ते मन्त्री दारुमयीं क्षुरिकां पाण्डुवर्णसर्जरसेन पिहितां पृष्टासनस्थस्य यशोवर्मणः करे समर्प्य तदग्रासनस्थो नृपतिः श्रीसिद्धराजः परमोत्सवेन श्रीमदणहिछपुरं प्रविवेश । प्रावेशि - कमङ्गलानन्तरं नृपेण स्मारिते व्याकरणवृत्तान्ते बहुभ्यो देशेभ्यस्तद्वेदिभिः पण्डितैः सह सर्वाणि व्याकरणानि समानीय श्रीहेमाचायैः श्रीसिद्धहेमाभिधानं पञ्चाङ्गमपि व्याकरणं सपादलक्षग्रन्थप्रमाणं संवत्सरेण रचयांचक्रे । राजवाह्यकुम्भिकुम्भे १ [ पण्डितपक्षे राजपक्षे च प्रसिद्धोः ] २० विश्रुतं प्रतिश्रुतं ३ CD छुरिका ४ B C व्याकुलतानन्तरं. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy