________________
१४६ प्रबन्धचिन्तामाणिःसर्गः ३ श्रीमन्महावीरेणेन्द्रस्य पुरतः शैशवे यव्याख्यात तजैनव्याकरणमधीयामहे वयमिति तद्वाक्यानन्तरमिमां पुराणवार्तामपहायास्माकमेव सन्निहितं नृपं व्याकरणकर्तारं कमपि ब्रूतेति तप्तिशुनवाक्यादनु ते प्राहुः। यदि श्रीसिद्धराजः सहायीभवति तदा कतिपयैरेव दिनैः पञ्चाङ्गमपि नूतनं व्याकरणं रचयामः ॥ अथ नृपेण प्रतिपन्नमिदं निर्वहणीयमित्यभिधाय तद्विसृष्टाः सूरयः स्वं स्थानं ययुः । ततो यशोवर्मराज्ञः करे निःप्रतीकारां क्षुरी सभोजने पूर्वपरिचितवेश्यागृहे कामनिग्रहः । परं किं क्रियते भवबल्लभाः । राज्ञोक्तं । आचार्य अत्र समेष्यन्ति तदा वक्तव्यं परोक्षे न । सूरिष्वागतेषु राज्ञोक्तं । किं २ वाचयन्तो वर्तधे यूयं । सूरिभिः समनमापि संक्षेपतः स्थूलिभद्रचरितं कथितं । आलिगेनोक्तं । महाराज' , विश्वामित्रपराशरप्रभृतयो ये चाम्बुपत्राशिनस्तेपि स्त्रीमुखपङ्कजं सुललितं दृष्ट्वैव मोहं गताः। आहारं सघृतं पयोदाधियुतं भुजन्ति ये मानवास्तेषामिन्द्रियनिग्रहः कथमहो दम्भः समालोक्यताम् ॥ १ गुरुभिरुक्तं । सिंहो बलीयो द्विरदी इत्यादि. आलिगेनोक्तं । अस्माकमेव शास्त्राणि पठित्वास्माकमेव पतयः संजाताः। गुरुभिरुक्तं । जैनेन्द्रव्याकरणं किं भवदीयं यत्पुरा
(१ सिंहादयश्चिरकाले श्वानस्तु न तथाऽत एव न मैथुने केवलमाहासः कारणं)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org