________________
१३८ प्रबन्धचिन्तामणिः सर्ग. ३ हडदेवआम्बडबोहडसोलाकनामानोऽभूवन् । अथान्यस्मिन्नवसरे सान्तूनामा महामात्यः करेणुस्कन्धारूढो राजपाटिकायां व्रजन व्यावृत्तः स्वकारितसान्तवसहिकायां देवनमश्चिकीर्षया तत्र प्रविशन वारवेश्यास्कन्धन्यस्तहस्तं कमपि चैत्यवासिनं सितवसनं ददर्श । ततो गजादवरुह्य कृतोत्तरासङ्गः पञ्चाङ्गप्रणामेन तं नमश्चकार । तत्र क्षणं स्थित्वा भूयस्तं प्रणम्य प्रतस्थे। ततः स लजयाऽधोवदनः पातालं प्रविविक्षुरिव तत्कालं सर्वमेव परिहृत्य मलधारिश्रीहेमसूरीणां समीपे उपसंपदमादाय संवेगरससंपूर्णः श्रीशत्रुजये गत्वा द्वादशवर्षाणि तपस्तेपे। किंच तेनान्ये समानाः प्रतिबोधिताः मुनिश्चिन्तयति । रे रे चित्त कथं भ्रातः प्रधावसि पिशाचवत् । अभिन्नं पश्य चात्मानं रागत्यागात्सुखी भव ॥ १ संसारमृगतृष्णासु मनो धावति किं वृथा। सुधामयमिदं ब्रह्मसरः किं नाचमाहले ॥ २॥ कदाचित्स मन्त्री श्रीशजये देवपादानां नमस्कर
१ C आस्थडदेवआम्बडदेवबाहडसोल्लाः D सोलदेवभट. १ २ D गौतममिव नमश्चक्रे. ३ इति ध्यायन्स मुनिः कायोत्सर्गे तस्थौ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org