SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ १३३ प्रबन्धचिन्तामणिःसर्ग. ३ दशमासोपवासान्कृत्वा प्रत्येकं द्वादशवस्तूनि तदु. द्यापने दत्वा श्रीसोमेश्वरनमस्याळते प्रस्थिता बाहुलोडनगरमागता तत्करं दातुमक्षमायतो गन्तुमलभमाना तन्निर्वेदादहमागामिनि जन्मनि अस्य करस्य मोचयित्री भूयासमिति कतनिदाना विपयात्र कुले जातेतिपूर्वभवस्मृतिः । अथ बाहुलोडकरमोचनाय सा गूर्जरेश्वरं प्रवरं वरं कामयमाना तं वृत्तान्तं पित्रे निवेदयामास । अथ जयकेशिराजा तंव्यतिकरं ज्ञात्वा तेन श्रीकर्णः स्वप्रधानःस्वसुताया मयणल्लदेव्या अङ्गीकारं याच्यते स्म। अथ श्रीकणे तस्याः कुरूपताश्रवणादुदासीने सति तस्मिन्नेव निर्बन्धपरां तां मयणल्लदेवीं पिता स्वयंवरां प्राहिणोत् । अथ श्रीकर्णनृपो गुप्तवृत्या स्वयमेव तां कुत्सितरूपां निरूप्य सर्वथा निरादर एव जातः। ततोष्टभिः सहचरीभिः सह नृपतिहत्याकते मयणल्लदेवीं प्राणान्यरिजिहीर्षु मत्वा श्रीकर्णजनन्या देयमतिराच्या तासां विपदं दृष्टुमक्षमया ताभिः सह प्राणसंकल्यश्चक्रे ॥ यतः॥ १ B श्रीकर्णः प्रधानपुरुषैर्मयणल्लदेव्याः कुरूपतां निशम्य मन्दादरे राज्ञि. २ D विलोक्य. ३ A दिक्वन्याभिरिव मूर्तिमतीभिः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003005
Book TitlePrabandh Chintamani
Original Sutra AuthorN/A
AuthorRamchandra D Shastri
PublisherRamchandra D Shastri
Publication Year1989
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy