________________
सिद्धराजप्रबन्धः १३३ स्वापदि तथा महान्तो न यान्ति खेदं यथा परापत्सु। अचला निजोपहतिषु प्रकम्यते भूः परव्यसने॥ १
इति महोपप्लवमुपस्थितमवगम्य मातृभक्या तां परिणीय श्रीकर्णः पश्चादृष्टिमात्रेणापि न संभावयामास ॥ अन्यदा कस्यामप्यधमयोषिति साभिलाषं नृपं मुञ्जालमन्त्री कञ्चुकिना विज्ञाय तद्वेषधारिणीं कृत्वा मयणल्लदेवी मृतुस्नातां रहसि प्राहिणोत् । तामेव स्त्रियं जानता नृपतिना सप्रेमभुज्यमानायास्तस्या आधानं समजनि । तदा च तया संकेतज्ञापनाय नृपकरान्नामाङ्कितम, गुलीयकं निजामुल्यां न्यधायि । अथ प्रातस्तदुर्विलसितात्प्राणपरित्यागोद्यतो नृपतिः स्मास्तित्प्रायश्चित्तं पप्रच्छ । तैस्तप्तताम्रमयपुत्तलिकालिङ्गनमिति निवेदिते प्रायश्चित्ताय तथैव चिकीर्षवे स मन्त्री यथावदवदत् ॥ सुलग्ने तस्य जातस्य सूनोनृपतिर्जयसिंह इति नाम निर्ममे । स बालस्त्रिवार्षिकः कुमारैः सवयोभिः सह रममाणः सिंहासन १c इति न्यायात्तदाग्रहादेवानिच्छुनापि सर्वथा श्रीकर्णेन सा परिणिन्ये । तदनन्तरं दृग्मात्रेण सर्वथा तामसंभावयन् कस्यां २ उद्यताय नृपतये स्मात्तैस्तप्तताम्रमयपुत्तलिकालिङ्गनमिति प्रायश्चित्ते.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org